|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.33. अध्यायः 033
Mahabharata - Karna Parva - Chapter Topics
कर्णगर्वोक्तिमसहमानेन शल्येन तद्ग्रर्हणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
शल्य उवाच। 8-33-0x(4922)(56452)
मा सूतपुत्र मन्येत(थाः) सौवर्णं हस्तिषङ्गवम्।
प्रयच्छसि मुधैव त्वं द्रक्ष्यस्यद्य धनञ्जयम्॥ 8-33-1(56453)
मा सूतपुत्र दानेन सौवर्णं हस्तिषङ्गवम्।
प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम्॥ 8-33-2(56454)
बलेन मत्तस्त्यजसि वसु वैश्रवणो यथा।
अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम्॥ 8-33-3(56455)
पुरा सृजसि यच्चापि वित्तं बहु च मूढवत्।
अपात्रदानाद्ये दोषास्तान्मोहान्नावबुध्यसे॥ 8-33-4(56456)
यत्प्रवेदयसे वित्तं बहु तेन खलु त्वया।
शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः॥ 8-33-5(56457)
यच्च प्रार्थयसे हन्तुं कृष्णौ मोहाद्वृथैव तत्।
न हि शुश्रुम सम्मर्दे क्रोष्ट्रा सिंहौ निपातितौ॥ 8-33-6(56458)
अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते।
ये त्वां निवारयन्त्याशु प्रपतन्तं हुताशने॥ 8-33-7(56459)
कार्याकार्यं न जानीषे कालपक्कोऽस्यसंशयम्।
बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः॥ 8-33-8(56460)
समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम्।
गिर्यग्राद्वा निपतनं तादृक्त्व चिकीर्षितम्॥ 8-33-9(56461)
सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः।
धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि॥ 8-33-10(56462)
हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वां न हिंसया।
श्रद्धस्वेदं मया प्रोक्तं यदि तेऽस्ति जिजीविषा॥ 8-33-11(56463)
कर्ण उवाच। 8-33-12x(4923)
स्वबाहुवीर्यमाश्रित्य प्रार्थयाम्यर्जुनं रणे।
त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि॥ 8-33-12(56464)
न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत्।
अपीन्द्रो वज्रमुद्यम्य किमु मर्त्यः कथञ्चन॥ 8-33-13(56465)
सञ्जय उवाच। 8-33-14x(4924)
इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः।
चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः॥ 8-33-14(56466)
यदा वै त्वां फल्गुनबाहुवेगा--
ज्ज्याचोदिता वेगवन्तोऽग्निकल्पाः।
अन्वेतारः कङ्कपत्राः शिताग्रा--
स्त्यक्ष्यत्येषा स्वां तदा कर्ण बुद्धिः॥ 8-33-15(56467)
यदा दिर्व्य धनुरादाय पार्थः
प्रतापयन्पृतनां सव्यसाची।
त्वां मर्दयिष्यत्यसुखैः पृषत्कै--
स्तदापृच्छां त्यक्ष्यसे पाण्डवस्य॥ 8-33-16(56468)
बालश्चन्द्रं मातुरङ्के शयानो
यथा कश्चित्प्रार्थयतेऽपहर्तुम्।
तद्वन्मोहाद्दयोतामानं रथस्थं
जेतुं पार्थं काङ्क्षसे सूतपुत्र॥ 8-33-17(56469)
हरादस्त्रं तीक्ष्णधारं यथाऽद्य
सर्वाणि गात्राणि निकर्षसि त्वम्।
सुतीक्ष्णशस्त्रोपमकर्मणेह
युयुत्ससे फल्गुनेनाद्य कर्ण॥ 8-33-18(56470)
हन्यादसिं तीक्ष्णधारं यथाऽतः
सुतेजनं निहितं वै पृथिव्याम्।
तथा खनस्यद्य शितान्पृषत्का--
न्यथार्थयस्यर्जुनेनेह युद्धम्॥ 8-33-19(56471)
त्रिशूलमाश्लिष्य सुतीक्ष्णधारं
सर्वाणि गात्राणि विघर्षसि त्वम्।
सुतीक्ष्णधारोपमकर्मणा त्वं
युयुत्ससे योऽर्जुनेनाद्य कर्ण॥ 8-33-20(56472)
क्रुद्धं सिंहं केसरिणं बृहन्तं
बालो मूढः क्षुद्रमृगस्तरस्वी।
समाह्वयेद्वृष्टमुपेत्य योद्धुं
तथा त्वमद्याह्वयसे हि पार्थम्॥ 8-33-21(56473)
मा सूतपुत्राह्वय राजपुत्रं
महावीर्यं केसरिणं यथैव।
वने शृगालः पिशितेन तृप्तः
पार्थं समासाद्य विनङ्क्ष्यसि त्वम्॥ 8-33-22(56474)
ईषादन्तं महानागं प्रभिन्नकरटामुखम्।
शशको हयसे युद्वे कर्ण पार्थं धनञ्जयम्॥ 8-33-23(56475)
विलस्थं कृष्णसर्पं त्वं जाल्यात्काष्ठेन विध्यसि।
महाविषं पूर्णकोपं यत्पार्थं योद्वुमिच्छसि॥ 8-33-24(56476)
सिंहं केसरिणं क्रुद्धमभिक्रम्याभिनर्दसे।
शृगाल इव मूढस्त्वं नृसिंहं कर्ण पाण्डवम्॥ 8-33-25(56477)
सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम्।
स्वगेवाह्वयसे पार्थं तथा कर्णं धनञ्जयम्॥ 8-33-26(56478)
सर्वाम्भसां निधिं भीमं मूर्तिमन्तं झषाकुलम्।
चन्द्रोदये विवर्धन्तमप्लुवस्त्वं तितीर्षसि॥ 8-33-27(56479)
ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम्।
वत्स आह्वयसे युद्वे कर्ण पार्थं धनञ्जयम्॥ 8-33-28(56480)
महामेघं महाघोषं दर्दुरः प्रतिनर्दसि।
बाणतोयप्रदं काले नरपर्जन्यमर्जुनम्॥ 8-33-29(56481)
यथा च श्वा गृहस्थस्तु व्याघ्रं वनगतं भषेत्।
तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम्॥ 8-33-30(56482)
शृगालो हि वने कर्ण शशैः परिवृतो वसन्।
मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति॥ 8-33-31(56483)
तथा त्वमपि राधेय सिंहमात्मानमिच्छसि।
अपश्यञ्शत्रुदमनं नरसिंहं रणेऽर्जुनम्॥ 8-33-32(56484)
व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि।
समास्थितावेकरथे सूर्याचन्द्रमसाविव॥ 8-33-33(56485)
यावद्ग्राण्डीवघोषं त्वं न शृणोषि महाहवे।
तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि॥ 8-33-34(56486)
रथशङ्खधनुःशब्दैर्नादयन्तं दिशो दश।
नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि॥ 8-33-35(56487)
नित्यमेव शृगालस्त्वं नित्यं सिंहो धनञ्जयः।
वीरप्रद्वेषणान्मूढ तस्मात्क्रोष्टेव लक्ष्यसे॥ 8-33-36(56488)
यथाऽऽखुः स्याद्विडालश्च श्वा व्याघ्रश्च बलाबले।
यथा शृगालः सिंहश्च यथा च शशकुञ्जरौ॥ 8-33-37(56489)
यथाऽनृतं च सत्यं च यथा चापि विषामृते।
तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः॥ ॥ 8-33-38(56490)
इति श्रीमन्महाभारते कर्णपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-33-3 वसु वित्तम्। द्रष्टासि द्रक्ष्यसि॥ 8-33-8 अबद्धं अनर्थकम्। अकर्णीयं अनाकर्णनीयम्॥ 8-33-10 सहितो युध्यस्व नत्वेकाकी॥ 8-33-27 झषैर्मीनैराकुलं पूर्णम्। अप्लवः बाहुभ्यामित्यर्थः॥ 8-33-28 दुर्न्दुभिग्नीवं दुन्दुभिखनकण्ठम्॥ 8-33-33 त्रयस्त्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|